सामग्री पर जाएँ

अपराह्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपराह्णः, पुं, (अह्नः अपरः एकदेशिसमासः, समासान्तः टच्, अहःस्थाने अह्नादेशः ।) शेषं अहः । दिनशेषभागः । इत्यमरः । (“रामाणां रमणीयतां विदधति ग्रीष्मापराह्णागमे” इति अमरुशतके । “तथा श्राद्धस्य पूर्ब्बाह्णादपराह्णो विशिष्यते” । इति मनुः ।) विकाल इति भाषा । तस्य भेदाः । द्विधा विभक्तदिनस्य शेषभागः ॥ त्रिधा विभ- क्तदिनस्य तृतीयभागः ॥ स तु त्रिंशद्दण्डदिन- माने विंशतिदण्डात् परं दशदण्डं यावत् । पञ्चधा विभक्तदिनस्य चतुर्थभागः । स तु अष्टादश- दण्डात् परं षड्दण्डं यावत् । इति श्रुतिस्मृती ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपराह्ण पुं।

दिवसः_अन्त्यो_भागः

समानार्थक:अपराह्ण

1।4।3।2।2

प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः। प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपराह्ण¦ पु॰ अपरमह्न एक॰ त॰ टच् अह्नादेशः। दिनशेष-भागे स च द्विधा विभक्तस्य, त्रिधा विभक्तस्य च दिनस्थ शेष-मागः।
“पृर्ब्बंदिनं मनुष्याणामपराह्णः पितॄणामिति” श्रुतौद्विधा विभजनात्
“पूर्ब्बाह्णोवै देवानां मध्यन्दिनं मनु-ष्याणामपराह्णः पितॄणामिति श्रुतौ त्रिधा विभजनाच्चतयोस्तेषु वा शेषस्य तथात्वम्। तथा च द्विधा विभक्तस्यदिनस्य शेषार्द्धम्, त्रिधा विभक्तस्य तृतीयार्द्धं च अप-राह्णः।
“ययास्तं सविता याति पितरस्तामुपासते। तिथिं तेभ्योऽपराह्णो हि स्वयं दत्तः स्वयंभुवेति” स्मृतिः।
“तथा श्राद्धस्य पूर्ब्बाह्णादपराह्णो विशि-ष्यते” मनुः। पञ्चधा विभक्तस्य तु चतुर्थभागे च तस्यच कर्म्मयोग्येतरापेक्षयाऽपरत्वात् तथात्वम्। अन्ति-मत्रिमुहूर्त्तस्य तु राक्षसवेलात्वेन कर्म्मानर्हत्वात् कर्म्मयोग्य-शेषभागत्वाभावान्नापराह्णत्वम्। तथा च
“प्रातःकालो-मुहूर्त्तां स्त्रीन् सङ्गवस्तावदेव तु। मध्याह्नस्त्रिमुहूर्त्तःस्यादप-राह्णस्ततस्तथा। सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र नकारयेत्। राक्षसी नाम सा वेला गर्हिता सर्वकर्म्मस्विति” त्रित्रिमुहूर्त्तात्मकतया पञ्चधा विभक्तदिनस्य चतुर्थे भागेकर्म्मार्हापराह्णत्वेन परिभाषणात्तथात्वम्। लौकिके तुमध्याह्नात्परतः, सूर्य्यास्तात् प्राक्कालोऽपराह्णत्वेनव्यवह्रियते इति” भेदः। ततः भवार्थे वा वुन् अप-राह्णकः तद्भवे त्रि॰। पक्षे तदर्थे ठञापराह्णिकः। तद्भवे त्रि॰। श्राद्धे चैवापराह्णिक” इति स्मृतिः। स्त्रियां ङीप्।
“पार्वणे पितृकृत्ये च तिथिर्ग्राह्याप-राह्णिकीति” स्मृतिः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपराह्ण¦ m. (-ह्णः) Afternoon, the last watch of the day. E. अपर last, and अह्ण for अहन् a day.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपराह्ण/ अपरा m. afternoon , the last watch of the day.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपराह्ण न.
दिन का द्वितीय भाग, अर्थात् दोपहर के बाद का समय, वाधू.श्रौ.सू. 4.28ः3; आश्व.श्रौ.सू. 2.1.1; आपराह्णिक वि. (की) स्त्री. दोपहर के बाद होने वाली, मा.श्रौ.सू. 4.3.44; बौ.श्रौ.सू. 6.24 ः 5।

"https://sa.wiktionary.org/w/index.php?title=अपराह्ण&oldid=487028" इत्यस्माद् प्रतिप्राप्तम्