सामग्री पर जाएँ

अपवर्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपवर्गः, पुं, (अपवृज्यते संसारः मुच्यतेऽनेन, अप + वृज् + घञ् कुत्वं ।) मोक्षः । त्यागः । क्रिया- वसानसाफल्यं । कर्म्मफलं । इति विश्वमेदिन्यौ ॥ क्रियान्तः । कार्य्यसमाप्तिः । इति जटाधरो रत्ना- वली च ॥ पूर्णता । इति धरणी ॥ (निर्व्वाणं । मुक्तिः । “अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्म्म- योर्गतौ” इति रघुवंशे । समाप्तिः । शेषः । अवसानं । “क्रियापवर्गेघ्वनुजीविसात्कृताः कृत- ज्ञतामस्य वदन्ति सम्पदः” । इति भारविः ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपवर्गः [apavargḥ], 1 Completion, end, fufilment or accomplishment of an action; अपवर्गे तृतीया P.II.3.6;III.4. 6; (अपवर्गः = क्रियाप्राप्तिः or समाप्तिः Sk.) तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज Mb.5.113.17. क्रियापवर्गेष्वनुजीविसात्कृताः Ki.1.14; अपवर्गे तृतीयेति भणतः पाणिनेरपि N.17.68; Ki. 16.49; पञ्च˚ coming to an end in 5 days.

An exception, special rule; अभिव्याप्यापकर्षणमपवर्गः Suśr.

Absolution, final beatitude; अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ R.8.16; ज्ञानेन चापवर्गः Sāṅkhya K.44

A gift, donation.

Abandonment. आत्मदोषापवर्गेण तद्याच्ञा जनमोहिनी Bhāg.1.23.46.;

Throwing, discharge (as of arrows); मुष्टेरसंभेद इवापवर्गे Ki.16.2.

Cessation, end; क्रियाणामर्थशेषत्वात् प्रत्यक्षतस्तन्निवृत्त्या अपवर्गः स्यात् । Ms.11.1.27.

"https://sa.wiktionary.org/w/index.php?title=अपवर्गः&oldid=202632" इत्यस्माद् प्रतिप्राप्तम्