अपवादः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपवादः, पुं, (अप + वद् + भावे घञ् ।) आज्ञा । निम्दा । तत्पर्य्यायः । अवर्णः २ आक्षेपः ३ निर्व्वादः ४ परीवादः ५ उपक्रोशः ६ जुगुप्सा ७ कुत्सा ८ गर्हणं ९ इत्यमरः ॥ (वचनीयं । “लोका- पवादाद्भयं” इति नीतिशतके । “देव्यामपि हि वैदेह्यां सापवादो यतो जनः” । “हा कथं सीतादेव्या ईदृशमचिन्तनीयं जनापवादं देवस्य कथयिष्यामि” । इति उत्तरचरिते । आज्ञा । अनुमतिः । आदेशः । “ततोऽपवादेन पताकिनी- पतेश्चचाल निर्हादवती महाचमूः” । इति भार विः ।) विश्वासः । इति मेदिनी ॥ विशेषः । बाधकः । यथा, -- “क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते” । इति कलापपरिशिष्टं ॥ रज्जुविवर्त्तस्य सर्पस्य रज्जुमात्रत्ववत् वस्तुविवर्त्तस्यावस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वं । तदुक्तं । “सतत्त्वतोऽन्यथा प्रथा विकार इत्युदीरितः । अतत्त्वतोऽन्यथा प्रथा विवर्त्त इत्युदाहृतः” ॥ अस्य फलं । आभ्यां अध्यारोपापवादाभ्यां तत्त्व- म्पदार्थशोधनमपि सिद्धं भवति । इति वेदान्त- सारः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपवादः [apavādḥ], 1 Censuring, reviling; censure, reproach, blame, abuse; आः तातापवादभिन्नमर्याद U.5; लोकापवादो बल- वान्मतो मे R.14.4; लोकापवादाद्भयम् Bh.2.62; scandal, evil report; चिरकालान्मया श्रुतस्तवापवादः Pt.I; Ki.11.25, 14.12; Mk.9.3; U.1; Pt.4; Y.2.27; देव्यामपि हि वैदेह्यां सापवादो यतो जनः U.1.6 spreading or indulging in scandals about; न केवलमत्याहितं सापवादमपि U.2; साप- वादम् censuringly Māl.9.
An exception, a special rule that restricts or sets aside a general rule (opp. उत्सर्ग); मा हिंस्यात्सर्वभूतानि इति उत्सर्गः; वायव्यं श्वेतमालभेत इत्यपवादः; अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः Ku.2.27; R. 15.7; ˚प्रत्ययः exceptional suffix; ˚स्थलम् a case for a special rule.
An order, command; ततो$पवादेन पताकिनीपते- श्चचाल निर्ह्रादवती महाचमूः Ki.14.27. cf. ... अपवादस्तु निन्दने । आज्ञायां स्यात् ... । Nm.
Refutation; (in Vedānta Phil.) refutation as of a wrong imputation or belief; रज्जुविव- र्तस्य सर्पस्य रज्जुमात्रत्ववत्, वस्तुभूतब्रह्मणो विवर्तस्य प्रपञ्चादेः वस्तु- भूतरूपतो$पदेशः अपवादः Tv.; अध्यारोपापवादाभ्यां वस्तुतत्त्वविनिश्चयः Vedānta; hence also, a means of refutation.
Confidence, trust.
Love; familiarity.
A small bell or other instrument sounded to decoy deer; मधुकरैरपवाद- करैरिव Śi.6.9; (˚करैः = व्याधैः; अपवादं मृगवञ्चनाय घण्टादि- कुत्सितवाद्यं कुर्वन्ति तैः Malli.)
