अपवित्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपवित्रम्, त्रिः (पू + इत्रच्, ततो नञ्समासः ।) पवित्रतारहितं । अशुद्धं । यथा, -- “अपवित्रः पवित्रो वा सर्व्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं सवाह्याभ्यन्तरः शुचिः” ॥ इति स्मृतिः ॥ (अविशुद्धः । अनिर्म्मलः । दृषितः । मलिनः । “अपवित्रमिदं कर्म्म कृतं मोहान्धया तया” । इति रामायणे । “यदेष सारमेयोऽपवित्रः स्कन्धा- रुढो नीयते” । इति पञ्चतन्त्रे ।)
