अपविद्धपुत्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपविद्धपुत्रः, पुं, (अपविद्धः पुत्त्रः, कर्म्मधारयः,) द्वादशविधपुत्रमध्ये पुत्रविशेषः । स तु पोषणा- द्यसमर्थमातापितृभ्यां त्यक्तः तयोरन्यतरमरणे अन्यतरेण वा त्यक्तः अनन्तरं अन्येन गृहीत्वा पुत्रत्वेन परिकल्पितः । यथा, -- “मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते” ॥ इति मनुः ॥
