अपस्मारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपस्मारः, पुं, (अपस्मर्य्यते पूर्ब्बवृत्तं विस्मर्य्यतेऽनेन, अप + स्मृ + करणे घञ् ।) रोगविशेषः । मृगी इति भाषा । तत्पर्य्यायः । अङ्गविकृतिः २ ला- लाधः ३ भूतविक्रिया ४ । इति राजनिर्घण्टः ॥ * ॥ तस्य सामान्यरूपं । “तमःप्रवेशः संरम्भो दोषोद्रेकहतस्मृतेः । अपस्मार इति ज्ञेयो गदो घोरश्चतुर्व्विधः” ॥ * ॥ तस्य निदानपूर्ब्बिका सम्प्राप्तिः । “चिन्ताशोकादिभिः क्रुद्धादोषा हृत्स्रोतसि स्थिताः । कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्व्वते” ॥ * ॥ तस्य पूर्ब्बरूपं । यथा, -- “हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता । निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ” ॥ * ॥ वातिकस्य रूपं । “कम्पते प्रदशेत् दन्तान् फेनोद्वामी श्वसित्यपि । परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्” ॥ * ॥ पैत्तिकस्य रूपं । “पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः ॥ सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः” ॥ * ॥ श्लैष्मिकरूपं । “शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः । पश्यन् शुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात्” ॥ * त्रिदोषजरूपं । “सर्व्वैरेभिः समस्तैश्च लिङ्गैर्ज्ञेयस्त्रिदोषजः” ॥ * ॥ असाध्यलक्षणं ॥ अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ॥ * ॥ अरिष्टलक्षणं । “प्रस्फुरन्तं सुबहुशः क्षीणं प्रचलितभ्रुवं । नेत्राभ्याञ्च विकुर्व्वाणमपस्मारो विनाशयेत्” ॥ * ॥ तस्य वेगकालः । “पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः । अपस्माराय कुर्व्वन्ति वेगं किञ्चिदथांन्तरं ॥ देवे वर्षत्यपि यथा भूमौ वीजानि कानिचित् । शरदि प्रतिरोहन्ति तथा व्याधिसमुच्चयाः” ॥ इति माधवकरः ॥ * ॥ तस्य चिकित्सा । यथा, -- “तैलेन लशुनः सेव्यः पयसा च शतावरी । ब्राह्मीरसश्च मधुना सर्व्वापस्मारभेषजं ॥ * ॥ चूर्णैः सिद्धार्थकादीनां भक्षितैरथवापि तैः । गोमूत्रपिष्टैः सर्व्वाङ्गलेपैः शाम्यत्यपस्मृतिः” ॥ सिद्धार्थकादिः उन्मादोक्तः ॥ * ॥ “शिग्रुकट्वङ्गकिणिहीनिम्बत्वग्रसपाचितं । चतुर्गुणे गवां मूत्रे तैलमभ्यङ्गने हितं” ॥ कट्वङ्गः शोनापाठा । किणिही चिरिचिरा ॥ * ॥ “निर्गुण्डीभववन्दाकनावनस्य प्रयोगतः । उपैति सहसा नाशमपस्मारो महागदः ॥ * ॥ मनोह्वा तार्क्ष्यविष्ठा वा शकृत् पारावतस्य च । अञ्जनाद्धन्त्यपस्मारमुन्मादञ्च विशेषतः” ॥ मनोह्वा मनःशिला । तार्क्ष्यो गरुडः । शकृत् विष्ठा ॥ * ॥ “यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः । अपस्मारं महाघोरं चिरोत्थं स जयेद्ध्रुवं” ॥ वचा घुरवच् ॥ * ॥ “कुष्माण्डकफलोत्थेन रसेन परिपेषितं । अपस्मारविनाशाय षष्ठ्याह्वं च पिबेत् त्र्यहं” ॥ त्र्यहमिति एतस्य पानाद्दिवसत्रयेणैवापस्मारोप- शमो भवतीत्यभिप्रायः ॥ * ॥ “ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतं । पुराणं स्यादपस्मारोन्मादग्रहहरं परं” ॥ एतस्य प्रक्रिया । पुराणं गोघृतं प्रस्थमितं वचा- कुष्ठशङ्खपुष्पीणां समुदितानां कुडवमितानां क- ल्केन प्रस्थमितब्राह्मीरसपिष्टेन पचेत् । ब्राह्मी- घृतं ॥ * ॥ “कुष्माण्डकरसे सर्पिरष्टादशगुणे पचेत् । यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनं” ॥ कुष्माण्डकघृतं ॥ * ॥ “द्वौ कीटमेषौ विधिवदानीय रविवासरे । कण्ठे भुजे वा संधार्य्य जयेदुग्रामपस्मृतिं” ॥ अयन्तु कीटो नदीतीरे सिकतामध्ये तिष्ठति ॥ * ॥ “शिग्रुकुष्ठजलाजाजीलशुनव्योषहिङ्गुभिः । वस्तमूत्रे शृतं तैलं नावनं स्यादपस्मृतौ” ॥ जलं बालकं । अजाजी जीरकः । वस्तः छागः । नावनं नस्यं ॥ * ॥ इत्यपस्माराधिकारः । इति भावप्रकाशः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपस्मारः [apasmārḥ] स्मृतिः [smṛtiḥ], स्मृतिः f. [अपस्मारयति स्मरणं विलोपयति, स्मृ-णिच्, कर्तरि अच्, or अपगतः स्मारः स्मरणं यतः]
Forgetfulness, loss of memory; स्मर ˚ Bh.1.89.
Epilepsy, falling sickness; Suśr. thus derives it; स्मृतिर्भूतार्थविज्ञान- मपश्च परिवर्जने । अपस्मार इति प्रोक्तस्ततो$यं व्याधिरन्तकृत् ॥
