सामग्री पर जाएँ

अपहारकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपहारकः, त्रि, (अप + हृ + ण्वुल् ।) अपहारी । अपहरणकर्त्ता । यथा, -- “परापवादनिरतः परद्रव्यापहारकः” । इति पुराणं ॥ (“द्विविधान् तस्करान् विद्यात् परद्रव्यापहारकान् प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः” ॥ “अन्नहर्त्तामयावित्वं मौक्यं वागपहारकः । वस्त्रापहारकः श्वैत्रं पङ्गुतामश्वहारकः” ॥ इति मनुः । चौरः । “योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते । स पापकृत्तमोलोके स्वेन आत्मापहारकः” । इति मनुः ।)

"https://sa.wiktionary.org/w/index.php?title=अपहारकः&oldid=112167" इत्यस्माद् प्रतिप्राप्तम्