अपह्नुतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपह्नुतिः, स्त्री, (अप + ह्नु + भावे क्तिन् ।) अप- लापः । अपह्नवः । इति शब्दरत्नावली ॥ उप- मेयासत्यकरणपूर्ब्बकोपमानसत्यताव्यवस्थापिका- लङ्कृतिः । तस्या लक्षणं । “प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः” । उदाहरणं । “अवाप्तः प्रागल्भ्यं परिणतरुचः शेलतनये । कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि ॥ अमुष्येयं मन्ये विगलदमृतस्यन्दिशिशिरे । रतिश्रान्ता शेते रजनिरमणी गाढमुरसि” ॥ इति काव्यप्रकाशः ॥ (“प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः । गोपनीयं कमप्यर्थं द्योतयित्वा कथञ्चन ॥ यदि श्लेषेणान्यथा वाऽन्यथयेत् साप्यपह्नुतिः” । इति साहित्यदर्पणे ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपह्नुतिः [apahnutiḥ], f.
Concealment of knowledge, denial.
(In Rhet.) A figure of speech, in which the real character of the thing in question is denied and that of another (alien or imaginary) object is ascribed to, or superimposed upon, it; प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः K. P.1; (उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्था- प्यते सा$पह्नुतिः) e. g. नेदं नभोमण्डलमम्बुराशिर्नौताश्च तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ॥ see also K. P.1 and S. D.683-84.
