अपह्नुति:

विकिशब्दकोशः तः

माता नासि, वैरीणी त्वं पापेऽहं योजितस्त्वया।(हेत्वपह्नुति:)

कैकयी नास्ति मे माता, कौसल्याम्बा मता मम।(पर्यस्तापह्नुति:)

पृथिव्यां त्रीणी रत्नानि जलमन्नं सुभाषितम्।मूढै: पाषाणखण्डेषु रत्नसंज्ञा विधीयते॥(पर्यस्तापह्नुति:)

हालाहलं नैव विषं रमा जना:परं व्यत्ययमनत्र मन्वते।निपीय जागर्ति सुखेन तच्छिव: स्पृशन् इमां मुह्यति निद्रया हरि:। (पर्यस्तापह्नुति: हेत्वपह्नुति: च)

वार्धक्याधारभूता सा सदा सन्निहिता मम।हा नष्टा ,तव पत्नी वा?न न यष्टी गता मम॥

नायं करस्ते रिपुकण्ठपाश:। (शुद्धापह्नव:)

नायं करस्ते रिपुकण्ठपाश:, गतासवो येन रिपुप्रवीरा:॥ (हेत्वपह्नव:)

नेदं नभोमण्डलमम्बुराशि:। (शुद्धापह्नव:)

न मृत्युर्मृत्युरित्याहु: ,दुष्कीर्तिर्मृत्युरुच्यते। (पर्यस्तापह्नुति: )

नायं मनुष्य: सर्पोयं गरलं येन वम्यते। (हेत्वपह्नव:)

काव्यालङ्कारकोश:
"https://sa.wiktionary.org/w/index.php?title=अपह्नुति:&oldid=28893" इत्यस्माद् प्रतिप्राप्तम्