अपाङ्गः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपाङ्गः, पुं, (अपाञ्चति वक्रं गच्छति चक्षुर्यत्र, अप + अञ्च + अधिकरणे घञ् ।) नेत्रयोरन्तः । चक्षुः- कोणः । (“चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं” । इति शाकुन्तले । “कुवलयदृशां लोललोलैरपाङ्गैः” । इति शान्तिशतके ।) तिलकः । इत्यमरः ॥ अङ्ग- हीने त्रि । इति मेदिनी ॥
