अपात्रीकरणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपात्रीकरणम्, क्ली, (अनपात्रं अपात्रं कुत्सित्पात्रं क्रियतेऽनेन, अपात्र + च्चि + कृ + करणे ल्यट् ।) नवविधपापमध्ये पापविशेषः । तच्चतुर्व्विधं । निन्दितधनादानं १ वाणिज्यं २ शूद्रसेवनं ३ असत्य- भाषणं ४ । इति प्रायश्चित्तविवेकः ॥ (“निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनं । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणं” ॥ इति मनुः ।)
