सामग्री पर जाएँ

अपादानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपादानम्, क्ली, (अपादीयते विश्लिष्यतेऽस्मात्, अप + आ + दा + ल्युट् ।) यस्माद्वस्तुनो वस्त्वन्तरस्य चलनं भवति तत् । षट्कारकमध्ये पञ्चमकारकं । तत्रै- कादशार्थे पञ्चमी स्यात् यथा । यतोऽपायः । यथा वृक्षात् पर्णं पतति १ । यतो भीः । यथा व्याघ्रात् बिभेति २ । यतो जुगुप्सा । यथा पापात् जुगु- प्सते धीरः ३ । यतः पराजयः । यथा सिंहात् पराजयते हस्ती ४ । यतः प्रमादः । यथा धर्म्मात् प्रमाद्यति नीचः ५ । यत आदानं । यथा भूपात् धनमादत्ते विप्रः ६ । यतो भूः । यथा पितुः पुत्त्रो जायते ७ । यतस्त्राणं । यथा व्याघ्रात् गां रक्षति गोपः ८ । यतो विरामः । यथा जपाद्विर- मति विप्रः ९ । यतोऽन्तर्द्धिः । यथा गुरोरन्तर्द्धत्ते शिष्यः १० । यतो वारणं । यथा यवेभ्यो गां वारयति ११ । इति मुग्धबोधटीकायां दुर्गा- दासः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपादानम् [apādānam], 1 Taking away, removal; ablation; a thing from which another is removed.

(in gram.) The sense of the ablative case; ध्रुवमपाये$पादानम् P.I.4.24; अपादाने पञ्चमी II.3.28; अपाये यदुदासीनं चलं वा यदि वा$चलम् । ध्रुवमेव तदावेशात्तदपादानमुच्यते ॥ Hari.; अपादान is of three kinds: निर्दिष्टविषयं किंचिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमिष्यते ॥ e. g. वृक्षात् पत्रं पतति, मेघाद्विद्योतते विद्युत्, & कुतो भवान्.

"https://sa.wiktionary.org/w/index.php?title=अपादानम्&oldid=202996" इत्यस्माद् प्रतिप्राप्तम्