सामग्री पर जाएँ

अपामार्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपामार्गः, पुं, (अपामृज्यते रोगो दूरीक्रियते अनेन, अप + आ + मृज् + करणे घञ् ।) वृक्षविशेषः । आपां इति भाषा । तत्पर्य्यायः । शैखरिकः २ धामार्गवः ३ मयूरकः ४ प्रत्यक्पर्णी ५ कीशपर्णी ६ किणिही ७ खरमञ्जरी ८ । इत्यमरः ॥ शैख- रेयः ९ अधामार्गवः १० केशपर्णी ११ इति तट्टीका ॥ स्थलमञ्जरी १२ प्रत्यक्पुष्पी १३ क्षार- मध्यः १४ अधोघण्टा १५ शिखरी १६ इति रत्नमाला ॥ दुर्ग्रहः १७ अध्वशल्यः १८ काण्डीरकः १९ मर्कटी २० दुरमिग्रहः २१ वाशिरः २२ पराकपुष्पी २३ कण्टी २४ मर्कटपिप्पली २५ कटुमञ्जरिका २६ अघाटः २७ क्षरकः २८ पाण्डु- कण्टकः २९ नालाकण्टः ३० कुब्जः ३१ । अस्य गुणाः । तिक्तत्वं । उष्णत्वं । कटुत्वं । कफार्शःकण्डू- दरामयविषरोगनाशित्वं । धारकत्वं । वान्तिकारि- त्वञ्च । इति राजनिर्घण्टः ॥ अग्निवत्तीक्ष्णत्वं । क्लेदकारित्वं । स्रंसनत्वञ्च । इति राजवल्लभः ॥ * ॥ तत्फलगुणाः । रसे स्वादुत्वं । पाके दुर्ज्जरत्वं । विष्टम्भित्वं । वायुकारित्वं । रूक्षत्वं । रक्तपित्त- प्रसादनत्वञ्च । इति भावप्रकाशः ॥ (अपामार्ग ओषधोनां सर्व्वासामेक इद्वशीति अथर्व्ववेदः ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपामार्गः [apāmārgḥ], [अपमृज्यते व्याध्यादिरनेन इत्यपामार्गः, मृज् करणे घञ् कुत्वं दीर्घश्च P III.3.121. Sk.] N. of a plant Achyranthes Aspera (Mar. आघाडा) largely used in medicine, washing teeth, sacrificial and other religious purposes and in incantations; अपामार्ग त्वया वयं सर्वं तदपमृज्महे; अपामार्ग ओषधीनां सर्वासामेक इद्वशी । Av. -Comp. -क्षारतैलम्, -तैलम् N. of two medicated oils.

"https://sa.wiktionary.org/w/index.php?title=अपामार्गः&oldid=203029" इत्यस्माद् प्रतिप्राप्तम्