अपुनर्भव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपुनर्भवः, पुं, (न पुनर्भवति न पुनरुत्पद्यतेऽस्मात्, न पुनर् + भू + अपादाने अप्, मयूरव्यंसकादि- त्वात् समासः ।) मुक्तिः । कैवल्यं । इति हेम- चन्द्रः ॥ पुनर्जन्माभावः । यथा, -- “हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे । ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः” ॥ इति चरकः ॥ (कर्त्तरि अचि तु पुनर्जन्मशून्यः मुक्त- इति यावत् ।)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपुनर्भव¦ पु॰ न पुनर्भवति संसारं भजतेऽस्मिन् भू--आधारेअप्।
१ मोक्षे। करणे अप् न॰ त॰।
२ पुनर्भवाभावहेतौ तत्त्वज्ञाने अभावार्थे न॰ त॰। पुनरुत्पत्त्यभावे पु॰
३ प्रशमने निवारणे,
“रोगाणामपुनर्भवे। ज्ञानं चतुर्विधंयस्येति” वैद्यकम्। नास्ति पुनर्भवः पुनरुत्पत्तिरस्य
४ पुनर्जन्मशून्ये तत्त्वज्ञानवति मुक्ते।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपुनर्भव¦ m. (-वः) Final beatitude, exemption of the soul from further transmigration. E. अ neg. पुनर again, and भव being.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपुनर्भव/ अ-पुनर्--भव m. not occurring again Car.
अपुनर्भव/ अ-पुनर्--भव m. exemption from further transmigration , final beatitude BhP.