अपूर्व्व
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपूर्व्वम्, क्ली, (नास्ति पूर्व्वं पूर्व्वकालभवं दृष्टं यस्य तत् ।) कर्म्मजन्यमदृष्टं । तत्पर्य्यायः । अनुशयः २ नियोगः ३ अतिशयः ४ कार्य्यं ५ प्रयोगः ६ । इति स्मृतिः ॥ तच्चतुर्तिधं यथा । फलापूर्ब्बं १ समुदायापूर्ब्बं २ उत्पत्त्यपूर्ब्बं ३ अङ्गापूर्ब्बं ४ । येन स्वर्ग आरभ्यते तत् फलापूर्ब्बं । अमावास्यायां त्रयाणां यागानामेकः समुदायः पौर्णमास्यामपरः तयोर्भिन्नकालवर्त्तिनोः संहत्यफलापूर्ब्बारम्भायो- गात्तदारम्भाय समुदायद्वयजन्यमपूर्ब्बद्वयं कल्प- नीयं । तयोरेकैकस्यारम्भाय एकैकसमुदायवर्त्तिनां त्रयाणां यागानां भिन्नक्षणवर्त्तित्वेन संघातापत्त्य- भावात् यागत्रयजन्यानि त्रीण्युत्पत्त्यपूर्ब्बाणि क- ल्पनीयानि । तेषाञ्चाङ्गोपकारमन्तरेणानिष्पत्ते- रङ्गानां चानेकक्षणवर्त्तिनां संघातासम्भवात् अ- ङ्गापूर्ब्बाणि कल्पनीयानि । तत्र त्वयं विभागः । इत्यधिकरणमाला ॥
अपूर्व्वम्, त्रि, (नास्ति पूर्व्वं यस्य, न पूर्व्वः नञ्समासः ।) आश्चर्य्यं । यथा, -- “अपूर्ब्बेयं हरेर्माया त्रिगुणा रज्जुरूपिणी । यया मुक्त्वो न चलति बद्धो धावति धावति” ॥ इति उद्भटः ॥ पूर्ब्बदिग्देशकालभिन्नं ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपूर्व्व¦ mfn. (-र्व्वः-र्व्वा-र्व्वं)
1. Wonderful, extraordinary.
2. Unprecedented, unpreceded.
3. Excellent, not exceeded.
4. Not easterly. n. (-र्व्वं) The remote or unforeseen consequence of an act, as heaven of religious rites, a consequence not immediately preceded by its cause. E. अ neg. पूर्व्व prior.
