अपोगण्डः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपोगण्डः, त्रि, (अपकृष्टकर्म्मणि वेदविहितकार्य्या- दन्यकर्म्मणि गण्डः उद्यतः, गडि उद्यमे + पचा- द्यच्, निपातनात् अपशब्दस्याकारस्य उकारः, अपसि कर्म्मणि गण्डः अतिभीरुत्वात् त्याज्यः ।) स्वभावतो न्यूनाधिकाङ्गविशिष्टः । तत्पर्य्यायः । पोगण्डः २ विकलाङ्गः ३ अङ्गहीनकः ४ । इति शब्दरत्नावली ॥ शिशुः । वलिभः । त्रिवलियुक्तः । इति मेदिनी ॥ अतिभीरुः । इति विश्वो हेम- चन्द्रश्च ॥ द्वे स्वभावतो न्यूनाधिकाङ्गे ऊनविंशत्य- ङ्गुलीकैकविंशत्यङ्गुलीकादौ जने वर्त्तते इत्यर्थः । विकलं स्वभावहीनं अङ्गमस्य विकलाङ्गः । अप- कृष्टं गच्छति अपोगण्डः । नाम्नीति गमेर्डः नि- पातनात् पस्य पोभावः । “अपोगण्डस्तु शिशुके विकलाङ्गे च भीरुके” । इति विश्वः ॥ निपातनादपस्यादिलोपे पोगण्डो- ऽपि । पोगण्डो विकलाङ्गे स्यादिति हलायुधः ॥ पोगण्डो विकलाङ्गकः । इति रत्नकोषः । इति तट्टीकायां भरतः ।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपोगण्डः [apōgaṇḍḥ] अपौगण्ड [apaugaṇḍa], अपौगण्ड [अ-पोगण्डः, or अपसि (बैध) कर्मणि गण्डः त्याज्यः Tv.]
Having a limb too many or too few (redundant or deficient).
Not under 16 years of age; बाल आषोडशाद्वर्षात्पोगण़्डश्चापि संज्ञितः । Nārada; अजडश्चेदपौगण्डो विषये चास्य भुज्यते । Ms.8.148; पोगण्डः पञ्चमा- दब्दादर्वाक् च दशमाब्दतः ।
A child or infant (किशोर, शिशु).
Very timid;
Wrinkled, flaccid.
One past 16.
