अप्रतिष्ठः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्रतिष्ठः, त्रि, अप्रतिष्ठितः । प्रतिष्ठारहितः । नास्ति प्रतिष्ठा यस्येति बहुव्रीहौ ह्रस्वः । यथा । हयशीर्षपञ्चरात्रीयसङ्कर्षणकाण्डे । “सर्व्वसूक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः । फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते” ॥ इति मठादिप्रतिष्ठातत्त्वं ॥ (“अप्रतिष्ठे रघज्येष्ठे का प्रतिष्ठा कुलस्य नः” । इति उत्तरचरिते ।)
