अप्रत्यक्षः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्रत्यक्षः, त्रि, (अक्षमिन्द्रियं प्रतिगतः प्रादिसमासः, न प्रत्यक्षः नञ्समासः ।) प्रत्यक्षशून्यः । इन्द्रिया- गोचरः । तत्पर्य्यायः । अतीन्द्रियः २ । इत्यमरः । (“किन्तु तस्य बलज्ञोऽहं भ्रातृरूपस्य वैरिणः । अप्रत्यक्षं च मे वीर्य्यं समये तव राघव” ॥) प्रत्यक्षाभावे क्ली ॥
