सामग्री पर जाएँ

अप्राप्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अप्राप्तः, त्रि, (प्र + आप् + कर्म्मणि क्तः, नञ्- समासः ।) अलब्धः । यथा । “अप्राप्तप्रापको विधिः” । इति सङ्कल्पकौमुदी दुर्गादासश्च ॥ (अनधिगतः । “अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः” । इति भाषापरिछेदे । अनुपस्थितः । अनागतः । न्यूनवयाः । अप्राप्तकालः । “उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्तामपि तां तस्मै कन्यां दद्यात् यथाविधि” ॥ इति मनुः ।)

"https://sa.wiktionary.org/w/index.php?title=अप्राप्तः&oldid=112341" इत्यस्माद् प्रतिप्राप्तम्