अप्राप्तव्यवहार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्राप्तव्यवहार, पुं, (अप्राप्तः व्यवहारोयेन सः, अथवा अप्राप्तः व्यवहारः व्यवहारयोग्यं वयो येन सः ।) व्यवहारानभिज्ञः । अप्राप्तवयस्कः । नावालग् इति आरवी भाषा । यथा, -- “अप्राप्तव्यवहाराणां धनं व्ययविवर्ज्जितं । न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च” ॥ इति दायतत्त्वधृतकात्यायनवचनं ॥ किञ्च । “गर्भस्थैः सदृशो ज्ञेयः अष्टमाद्वत्सरात् शिशुः । बाल आषोडशाद्वर्षात् पोगण्डोऽपि निगद्यते ॥ परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते” ॥ इति व्यवहारतत्त्वघृतनारदवचनं ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्राप्तव्यवहार¦ त्रि॰ न प्राप्तः व्यवहारयोग्यः कालोऽस्य।
“अप्राप्तव्यवहारोऽसौ यावत् षोडशबर्षक” इति दक्षोक्तेअपूर्ण्णषोडशवर्षवयस्के बाले
“गर्भस्थैः सदृशोज्ञेय आष्ट-मात् वत्सराच्छि शुः। बाल आ षोडशादर्वाक् पौगण्डश्चनिगद्यते। परतोव्यावहारज्ञः स्वतन्त्रः पितरावृते इति” नारदः।
“अप्राप्तव्यवहाराणां धनं व्ययविवर्जितम्। न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च” कात्या॰ स्मृतिः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्राप्तव्यवहार¦ m. (-रः) A minor. mfn. (-रः-रा-रं) Under age, not of years to engage in law or public business. E. अ neg. प्राप्त attained, व्यवहार legal affairs.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्राप्तव्यवहार/ अ-प्रा mfn. a minor in law
अप्राप्तव्यवहार/ अ-प्रा mfn. under age , not of years to engage in law or public business.