सामग्री पर जाएँ

अफेनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अफेनम्, क्ली, (निन्दितं फेनं निर्य्यासो यस्य तत् ।) वृक्षनिर्यासविशेषः । आफिं इति भाषा । तत्- पर्य्यायः । खस्खसरसं २ निफेनं ३ अहिफेनकं ४ अस्य गुणाः । सन्निपातनाशित्वं । शुक्रबलमोह- कारित्वञ्च ॥ तत्तु चतुर्व्विधं । एकं श्वेतवर्णं । अन्नजीर्णताकारकत्वान्नाम जारणं । द्वितीयं कृष्ण- वर्णं । मृत्युकारकत्वान्नाम मारणं । तृतीयं पीतवर्णं । वयःस्तम्भनकारकत्वान्नाम धारणं । चतुर्थं कर्व्वूर- वर्णं । मलसारकत्वान्नाम सारणं । इति राज- निर्घण्टः ॥ (त्रि, फेनरहितः । “अनुष्णाभिरफेना- भिरद्भिस्तीर्थेन धर्म्मवित्” । इति मनुः ।)

"https://sa.wiktionary.org/w/index.php?title=अफेनम्&oldid=112366" इत्यस्माद् प्रतिप्राप्तम्