अबध्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अबध्यम्, त्रि, (हन्तुमयोग्यं हन् + अर्हाद्यर्थे कर्म्मणि यत्, “हनोवा बधच” इति बधादेशे । बधम- र्हति इति बध्यः, न बध्यः, नञ्समासः ।) अन- र्थकवाक्यं । बधायोग्यं । इति मेदिनी ॥ (“अबद्धाञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतामपि” । इति स्मृतिः । बधदण्डायोग्ये ब्राह्मणे च, “बधः स्वर्व्वस्वहरणं पुरान्निर्वासनाङ्कने” । “तदङ्कच्छेदैत्युक्तो दण्ड उत्तमसाहसः । अविशेषेण सर्व्वेषामेष दण्डविधिः स्मृतः ॥ बधादृते ब्राह्यणस्य न बधं ब्राह्मणोऽर्हति” ॥ इति मिताक्षरायां ।)
अबध्यम्, त्रि, (बधमर्हति, यत्, ततो नञ्समासः ।) मारणानर्हं । बधायोग्यं । अनर्थकवाक्यं । इति विश्वमेदिन्यौ । यथा, -- “अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतास्वपि ।” शत्रुस्त्रीणामबध्यत्वमाह मत्स्यपुराणं । “किं त्वया न श्रुतं लोके अबध्याः शत्रुयोषितः” । इति प्रायश्चित्ततत्त्वं ॥ * ॥ आत्मन अबध्यत्वं यथा, -- “देही नित्यमबध्योऽयं देहे सर्व्वस्य भारत । तस्मात् सर्व्वाणि भूतानि न त्वं शोचितुमर्हसि” ॥ इति श्रीभगवद्गीतायां २ अध्यायः ॥ * ॥ तद्बधे पापं यथा, -- “यावानबध्यस्य बधे तावान् बध्यस्य मोक्षणे । अधर्म्मोर्नृ पतेर्दृष्टोधर्म्मस्तु विनियच्छतः” ॥ इति मानवे ९ अध्याये २४९ श्लोकः ॥
