अब्जज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अब्जजः, पुं, (अब्जात् विष्णुनाभिपद्मात् जायते, अब्ज + जन् + कर्त्तरि डः ।) ब्रह्मा । इति त्रि- काण्डशेषः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अब्जज¦ पु॰ अब्जात् विष्णोर्नाभिकमलात् जायते जन--ड। चतुर्मुखे ब्रह्मणि तस्य विष्णुनाभिकमलजातत्वात्तथात्वम्
“दृष्ट्वा भूतानि भगवान् लोकसृष्ठ्यर्थमव्ययः। ब्रह्मणोजन्म-सहितं बहुरूपं विचिन्वति”। इत्युपक्रम्य
“ततस्तस्मिन्महा-तोये हविषो हरिरच्युतः। स्वपन् क्रीडंश्च विविधं मोदते[Page0270-b+ 38] वैस पावकिः पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततः। सहस्रपर्ण्णं विरजो भास्कराभं हिरण्मयम्। अथ योग-विदां श्रेष्ठं सर्वभूतमनोमयम्। स्रष्टारं सर्वभूतानां ब्रह्माणंसर्वतोमुखम्। तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते। इति समुत्पादितवानित्याकर्षः अनतिदूरे चं
“कस्त्वंपुष्करमध्यस्थः सोतोष्णीषश्चतुर्मुखः। आवां न गणये-र्गोहादास्मे त्वं विगतज्वरः। एह्यावयोर्बाहुयुद्धं प्रयच्छकमलोद्भव!। इति तेन तस्य विष्णुनाभिकमलज त्वंतद्स्थृत्वञ्च हरि॰ पौ॰ प॰।
“स्वराशौ स्वांशगे सौम्ये (बुधे)लग्नस्थे वा भृगोः सुते। जीवे वाऽब्जजयोगोऽयं यातुःशत्रुविनाशकृदिति” ज्योतिषोक्ते
२ यात्रायोगभेदे च।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अब्जज¦ m. (-जः) A name of Brahma. E. अब्ज a lotus, and ज born; BRAHMA, being said to have sprung at the creation from the lotus, which arose from the navel of VISHNU.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अब्जज/ अब्-ज--ज m. " sprung (at the creation) from the lotus (which arose from the navel of विष्णु) " , N. of ब्रह्मा.