सामग्री पर जाएँ

अब्दः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अब्दः, पुं, (अबति सीमानं रक्षति अब + “अब्जा- दय” इति दन् मेघपर्ब्बतविशेषपक्षे तु अपो ददाति, अप् + दा + कर्त्तरि कः ।) वत्सरः । मेघः । मुस्ता । इति मेदिनी ॥ पर्ब्बतविशेषः । इति विश्वः ॥

अब्दः, पुं, (अव + दन् ॥ औणादिकोऽयं ।) वत्सरः । मेघः । मुस्ता । इति रायमुकुटः सारसुन्दरी च ॥ (मुस्तार्थे प्रयोगो यथा, -- “किराताब्दामृताविश्वचन्दनोदीच्यवत्सरैः । शोथातिसारशमनं विशेषाज्ज्वरनाशनम्” ॥ इति वैद्यकचक्रपाणिसङ्ग्रहः ॥)

"https://sa.wiktionary.org/w/index.php?title=अब्दः&oldid=112406" इत्यस्माद् प्रतिप्राप्तम्