अब्रह्मण्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अब्रह्मण्यम्, क्ली, (ब्रह्मणि ब्राह्मणोचितकर्म्मणि अहिंसादौ साधु, ब्रह्मण् + यत्, नञ्समासः ।) नाट्योक्तौनायं बध्य इत्याकारोक्तिः । अबधयाच्ञा । तत्पर्य्यायः । अबध्योक्तिः २ । इत्यमरः ॥ (“नेपथ्ये अब्रह्मण्यमब्रह्मण्यं । अत्रान्तरे ब्राह्यणेन मृतं पुत्त्रमुत्क्षिप्य राजद्वारे सोरस्ताडनमब्रह्मण्य- मुद्घोषितं” । इति उत्तरचरिते । वेदविरुद्धं अतिनिन्दितं कर्म्म । निरतिशयव्यसनशोकादिप्रकाशोक्तिरियं ।)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अब्रह्मण्य नपुं।
अवध्यब्राह्मणादेर्दोषोक्तिः
समानार्थक:अब्रह्मण्य
1।7।14।1।1
अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः। अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः॥
पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अब्रह्मण्य¦ न॰ ब्रमणि ब्राह्मणोचितकर्मणि अहिंसादौ साधुयत् विरोधे न॰ त॰।
१ ब्रह्मकर्म्मण्यसाधौ
२ हिंसादौ तथा-त्वेन नोदनविषये
३ वचने च तथा हि
“अयं न वध्य” इतिकयने हिन हिंस्यते। हिंसा च ब्रह्मकर्मणि न साधुःइत्यतस्तस्य तथात्वम् एतच्च प्रायेण नाट्योक्तावेव प्रयुज्यते
“भो अब्रह्मण्यमब्रह्मण्यं वर्त्तते” नाटकम्। क्वचिदन्यत्रापि
“अथैत्य योगनन्दस्य व्याडिना क्रन्दितं पुरः। अब्रह्मण्य-मनुत्क्रान्तजीवो योगस्थितोद्विजः” वृहत्कथासारः।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अब्रह्मण्य [abrahmaṇya], a.
Not fit for a Brāhmaṇa; अब्रह्मण्यमवर्णं स्यात् ब्रह्मण्यं ब्रह्मणो हितम् Halāy.
Inimical to Brāhma- ṇas, -ण्यम् An act not befitting a Brāhmaṇa; an un-Brahmanical act. In dramas usually found as an exclamation uttered by a Brāhmaṇa in the sense of 'to the rescue', 'help', 'help', 'a horrible or disgraceful deed has been committed'. अहो ˚ण्यं˚ ण्यम् Pt.1.; Ś.6; U.1; अत्रान्तरे ब्राह्मणेन मृतपुत्रमारोप्य राजद्वारि सोरस्ताडनम- ब्रह्मण्यमुद्घोषितम् U.2 a cry of help, or distress; अथैत्य योगनन्दस्य व्याडिना क्रन्दितं पुरः । अब्रह्मण्यमनुत्क्रान्तजीवो योगस्थितो द्विजः Bṛi. Kath.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अब्रह्मण्य/ अ-ब्रह्मण्य mfn. not favourable to Brahmans MBh. BhP.
अब्रह्मण्य/ अ-ब्रह्मण्य n. an unbrahmanical or sacrilegious act , used as an exclamation , meaning " help! " " a disgraceful deed is perpetrated! " Pan5cat. Katha1s.
अब्रह्मण्य/ अ-ब्रह्मण्य n. (Prakrit abbamhaNNaM) S3a1k.