अब्रह्मण्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्रह्मण्यम्, क्ली, (ब्रह्मणि ब्राह्मणोचितकर्म्मणि अहिंसादौ साधु, ब्रह्मण् + यत्, नञ्समासः ।) नाट्योक्तौनायं बध्य इत्याकारोक्तिः । अबधयाच्ञा । तत्पर्य्यायः । अबध्योक्तिः २ । इत्यमरः ॥ (“नेपथ्ये अब्रह्मण्यमब्रह्मण्यं । अत्रान्तरे ब्राह्यणेन मृतं पुत्त्रमुत्क्षिप्य राजद्वारे सोरस्ताडनमब्रह्मण्य- मुद्घोषितं” । इति उत्तरचरिते । वेदविरुद्धं अतिनिन्दितं कर्म्म । निरतिशयव्यसनशोकादिप्रकाशोक्तिरियं ।)

"https://sa.wiktionary.org/w/index.php?title=अब्रह्मण्यम्&oldid=487504" इत्यस्माद् प्रतिप्राप्तम्