सामग्री पर जाएँ

अभक्ष्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभक्ष्यम्, त्रि, (भक्ष + कर्म्मणि ण्यत्, नञ्समासः । अभक्षणीयं । अखाद्यं । यथा, -- “अधार्य्यं चर्म्म मे सद्भिः करिष्यसि किमस्थिभिः । अभक्ष्यं चैव मे मांसं त्वादृशैर्ब्रह्मचारिभिः” ॥ इति रामायणं ॥ (भोजनायोग्यं वस्तु, भक्षणाय मन्वादिभिः शास्त्रकारैः निषिद्धं द्विजातिभिः वर्ज्ज- नीयं वस्तु । तानि च यथा, लशुनगृञ्जनपलाण्ड्वा- ख्यानि त्रीणि स्थूलकन्दशाकानि । विष्ठादिजातानि तण्डुलीयादीनि च । लोहितवृक्षनिर्य्यासः । छेदनो- द्भववृक्षनिर्य्यासः । शेलुफलं । गव्यं । पेयुषञ्च । देवाद्यनुद्देशेन आत्मार्थं पक्वाः कृसरसंयावपाय- सापूपाः । असंस्कृत पशुमांसं । नैवेद्यार्थमन्नानि निवेदनात् प्राक् । हवींषि च होमात् प्राक् इत्यादि ।)

"https://sa.wiktionary.org/w/index.php?title=अभक्ष्यम्&oldid=112446" इत्यस्माद् प्रतिप्राप्तम्