अभावः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभावः, पुं, (भू + भावेघञ, नञ्समासः ।) मरणं । असत्ता । इति विश्वमेदिनौ ॥ “अस्ति पुत्त्रो वशे यस्य भृत्योभार्य्या तथैवच । अभावे सति सन्तोषः स्वर्गस्थोऽसौ महीतले” ॥ इति चाणक्यः । (“अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः” ॥ इति मनुः ।) द्रव्यादिषट्कभिन्नः । स द्विविधः । संसर्गाभावः १ अन्योन्याभावश्च २ । इति भाषा- परिच्छेदः ॥ भावशून्यः भावः स्थायिभावादिरिति अलङ्कारशास्त्रं ॥
