सामग्री पर जाएँ

अभिघात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभिघातः, पुं, (अभि + हन् + भावे घञ् ।) दण्डा- दिभिरभिहननं । आघातः । यथा, -- “अभिघाताभिचाराभ्यामभिषङ्गाभिशापतः” । इति माधवकरः ॥ प्रश्नादौ कवर्गादिवर्गाणां पूर्ब्ब- स्थितचतुर्थद्वितीयतृतीयचतुर्थवर्णाः क्रमेण पर- स्थितवर्गैकैकद्वित्रिवर्णयुक्ताः । तत्र क्ली । यथा -- “अभिघातं स्यात् पूर्ब्बं वेदद्वित्र्यब्धिवर्णाश्चेत् । नगवर्गाणां परतो धरणीचन्द्रद्विरामाढ्याः” ॥ इति केरलग्रन्थः ॥ (प्रहारः । अभिहननं । आ- घातः । “चञ्चद्भुजभ्रमितचण्डगदाभिघात- संचूर्णितोरुयुगलस्य सुयोधनस्य” । इति वेणीसंहारे । सङ्घर्षणं । संमर्द्दः । पीडनं । क्लेशदानं । शोकक्षोभः । “सम्भवांश्च वियोनीषु दुःखप्रायासु नित्यशः । शीतातपाभिघातांश्च विविधानि भयानि च” ॥ इति मनुः । प्रतीकारः । अपसारणं ।)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभिघात¦ पु॰ अभि + हन--भावे घञ्।

१ निःशेषहनने समू-लनाशने
“दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ” सां॰ का॰।

२ ताडने।
“तडाभिघातादिव लग्नपङ्के” कुमा॰। अभिहन्यतेऽस्मै फलाय उद्दिश्यार्थे बा॰ घञ्। द्रव्यान्तरक्रियया उत्पादितद्रव्यान्तरसंयोगे, वैशेषि-कोक्ते शब्दहेतौ, संयोगिनोर्मिथोविभागजनकक्रिया-हेतौ च

३ संयोगभेदे। यथोक्तं
“नोदनाभिघातात्संयुक्तसंयोगाच्च पृथिव्यां कर्म्मेति वै॰ सू॰।
“यः संयोगःशब्दनिमित्तकारणं, यज्जनितं कर्म्म संयोगिनोः परस्पर-विभागहेतुश्च भवति स संयोगविशेषोऽभिघातः नोदनं तुतद्विलक्षणः संयोगः। ताभ्यामप्रि प्रत्येकं कर्म्म जन्यते पङ्का-ख्यायां पृथिव्यां चरणेन नोदनात् चरणाभिघाताच्च कर्म्मजायते तत्र पङ्कः समवायिकारणम् नोदनाभिघातौ यथायथमसवायिकारणम् गुरुत्ववेगप्रयत्ना निमित्तकारणानिसंयुक्तसंयोगात् नोदनाभिघाताद्वा पङ्के कर्म पङ्कस्थिते घटादावपि, तत्समकालमेव कर्मदर्शनादिति” श॰ उपम्करः।
“आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म, तथा हस्तसंयोगाच्चमुषले, अभिघातजे मुषले कर्म्मणि व्यतिरेकादकारणं हस्त-संयोगः” बै॰ सू॰ तथात्मसंयोगात् हस्तकर्मणि, अभिघाता-न्मुषलसंयोगाच्च हस्ते कर्म
“आत्मजन्या भवेदिच्छा इच्छा-जन्या भवेत् कृतिः कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिये” त्युक्तिममुसृत्याह आत्ससंयोगप्रयत्नाभ्यां हस्तेसमवाथि-कारणे कर्म, तस्य च कर्मणः प्रयत्नवदात्मसंयोगोऽसमवायिकारणं प्रयत्नस्तु निमित्तकारणम् प्रयत्नवदात्मसंयोगासमवायिकारणिका च क्रियैव चेष्टा। तथा उत्क्षेपबद्धस्तसंयोगात्मुषले उत्क्षेपणं कर्म जायते। तथाच प्रयत्नवदात्मसंयुक्ते-न हस्तेन यो मुषलस्य संयोगः स तत्रासमायिकारणम् मुषलंसमवायिकारणमिति। उदूखलाभिहतस्य मुषलस्य कर्म-यदुत्पपतनं जायते तत्र कारणमाह। मुषलादौ उत्पतनकर्मणि अभिघात एव हेतुः, न तु हस्तसंयोगः तस्य तं प्रतिकारणत्वेनान्ययासिद्धत्वात् तद्व्यतिरेकेऽपि अभिघात-[Page0286-a+ 38] मात्रेण अभिहतप्रधानगुरुद्रव्य संयोगेनैव उत्पतनदर्शनात्यथा भूम्यादौ हस्तेन वेगक्षिप्तलोष्टादेर्हस्तयोगं विनाऽपिउत्पत्ति र्दृश्यतेऽत उत्पतने अभिघात एव असमनायि-कारणम्
“अभिघातात् मुषले संयोगाद्धस्ते कर्म” वै॰ सू॰अभिघातात् अभिघातजनितसंस्कारजनितात् हस्तमुषल-संयोगात् हस्ते उत्पतनं कर्म तत्र मुषलसंयोगोऽसमायि-कारणम्। तीव्रवेगप्रयुक्तक्रियाजनितः संयोगः शब्दहेतुः।
“तृतीयः स्यात् कर्म्मजोऽपि द्विधैव परिकीर्त्तितः अभि-घातोनोदनञ्च शब्दहेतुरिहादिमः। शब्दाहेतुर्द्वितीयःस्यादिति”
“शब्दोध्वनिश्च वर्ण्णश्च मृदङ्गादिभवोध्वनिः।
“कण्ठसंयोगादिजन्यावर्ण्णास्ते कादयोमता” इति च भाषा॰अतएवोक्तम्
“कण्ठताल्वाद्यभिघातजन्यः शब्दः” इतिवृद्धैः। शिक्षायामप्युक्तम्
“आत्मा बुद्ध्या समेत्यार्थान्मनोयुङ्क्ते विवक्षया। मनः कामाग्निमाहन्ति स प्रेरयतिमारुतम्। सो दीर्ण्णो मूर्द्ध्न्यभिहतो वक्त्रमापद्य मारुतःवर्ण्णान् जनयते” इति। स उदीर्णः सन्धिः पादपूरणार्थः। मृदङ्गादौ तीव्रवेगेन काष्ठादिताडनसंयोगे शब्दोजन्यतेइति लौके प्रसिद्धिः। वृक्षादौ प्रवलतरवायुसंयोगाच्च-शब्दो ध्वन्यात्मक एव। मृदुवेगेन क्रियया संयोगेनोदनरूपे न शब्दः इति तस्यं शब्दाहेतुत्वमुक्तम् अधिकंनोदनशब्दे वक्ष्यते।
“अभिघातोऽस्त्यस्य अर्श॰ अच्। अभिघातयुक्ते त्रि॰
“अभिघातं स्यात् पूर्ब्बं वेदद्वित्र्यदि-वर्ण्णा{??}एत्। नववर्गाणां नवतो धरणीचन्द्रद्विरामाद्या” इतिकेरलोक्ते वर्णभेदे, न॰ शब्दकल्पद्रुमः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभिघात [abhighāta] घातक [ghātaka] तकिन् [takin], घातक तकिन् &c. See under अभिहन्.

अभिघातः [abhighātḥ], 1 Striking, (fig. also); beating, smiting, attack, injury, hurt; तटाभिघातादिव लग्नपङ्के Ku.7.49; शीतातपाभिघातान् Ms.12.77 attacks of heat and cold; so दुःख˚, शोक˚ &c.

(In Vaiśeṣika Phil.) Striking against (such as gives rise to sounds &c.), regarded as a kind of संयोग.

Striking back, driving or warding off.

Extirpation, complete destruction or removal; दुःखत्रयाभिघाताज्विज्ञासा तदभिघातके हेतौ Sāṅ. K.1.

Abrupt or vehement articulation of words (as of Vedic texts); sudden shock.

तम् The combination of the 4th letter of any class with the first or third letter of that class; of the second with the first; and of the third with the second letter of any class; अभिघातं स्यात्पूर्वं वैदद्वित्र्यादिवर्णाश्चेत् । नववर्गाणां नवतो धरणीचन्द्रद्विरामाद्याः Śabdak.

A harsh pronunciation caused by the neglect of Sandhi rules.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभिघात/ अभि-घात m. ( हन्) , striking , attack

अभिघात/ अभि-घात m. infliction of injury , damage Mn. xii , 77 , etc.

अभिघात/ अभि-घात m. striking back , driving away , warding off

अभिघात/ अभि-घात m. abrupt or vehement articulation (of Vedic text) VPra1t.

अभिघात/ अभि-घात n. an irregular combination of consonants i.e. the combination of the fourth letter of gutturals , cerebrals , etc. with the first or third letter , of the second with the first letter , and of the third with the second letter of those classes of consonants.

अभिघात/ अभि-घात See. s.v.

"https://sa.wiktionary.org/w/index.php?title=अभिघात&oldid=487568" इत्यस्माद् प्रतिप्राप्तम्