अभिघाती
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिघाती, [न्] पुं, (आभिमुख्येन हन्ति, अभि + हन् + णिनि ।) शत्रुः । इत्यमरः ॥ (विपक्षः ॥ आक्रमणकारी । “एकदा न विगृह्णीयात् बहून् राजाभिघातिनः । सदर्पोऽप्युरगः कीटैर्बहुभिर्नश्यति ध्रुवं” ॥ इति हितोपदेशे । पीडाजनकः । आघातकारी । “सुव्यवस्थितमन्त्रेण परमर्म्माभिघातिना । भवितव्यं नरेन्द्रेण न कामवशवर्त्तिना” । इति रामायणे । प्रतीकारः । अपसारणं ।)
