सामग्री पर जाएँ

अभिचारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभिचारः, पुं, (आभिमुख्येन शत्रुबधार्थं चारः कार्य्यकरणं अभि + चर + भावे घञ् ।) हिंसा- कर्म्म । इत्यमरः ॥ अथर्व्ववेदोक्तमन्त्रयेन्त्रादि- निष्पादितमारणोच्चाटनादिहिंसात्मककर्म । इति भरतः ॥ मारणादिफलकतान्त्रिकप्रयोगविशेषः । स षड्विधः । मारणं १ मोहनं २ स्तम्भनं ३ विद्वेषणं ४ उच्चाटनं ५ वशीकरणं ६ । इति तन्त्रसारः ॥ उपपातकविशेषः । इति प्रायश्चित्त- विवेकः ॥ स तु श्येनादियज्ञेनानपराधस्य मारणं । इति कुल्लूकभट्टः ॥ यथा, -- “हिंसौषधीनां स्त्र्याजीवोऽभिचारोमूलकर्मच” । इति मनौ ११ अध्यायः ॥ * ॥ अथाभिचारः । “ओ~ विरुद्धे रूपिणि चण्डिके वैरिणममुकं देहि देहि स्वाहा” । इति खड्गमभिमन्त्र्य खङ्गमन्त्रांश्च पठित्वा खड्गं संपूज्य छागादिकममुकोऽसि इति वैरिनाम्नाभिमन्त्र्य रक्तसूत्रेण त्रिधा मुखं बद्ध्वा वैरिनाम्ना प्राणप्रतिष्ठां कृत्वा । “ओ~ अयं स वैरी यो द्वेष्टि तमिमं पशुरूपिणं । विनाशय महादेवि स्फें स्फें खादय खादय” ॥ इति पठित्वा बलिशिरसि पुष्पं दत्त्वा बलिमन्त्रं पठित्वा बलिं संपूज्य अद्याश्विने मासि महा- नवम्यां अमुकगोत्रोऽमुकदेवशर्म्मा अमुकशत्रु- नाशाय इमं छागं महिषं वा अमुकदैवतं भग- वत्यै दुर्गायै तुभ्यमहं सम्प्रददे । इत्युत्सृज्य आं क्रूं फट् इति छित्त्वा मूलं पठित्वा एतद्रुधिरं दुर्गायै नमः । इति रक्तं शिरश्च दत्त्वा अष्टाङ्गमांसै- र्होमं मूलमन्त्रेण कुर्य्यादिति तन्त्रसारः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभिचारः [abhicārḥ], 1 Exorcising, enchanting, employment of magical spells for malevolent purposes; magic itself (being regarded as one of the Upapātakas or minor sins); दिग्गजैर्दन्दशूकैश्च अभिचारावपातनैः Bhāg 7.5.43; अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः Ms.9.29;11.63.197; K.19; ब्रह्मद्विषो ह्येष निहन्ति सर्वानाथर्वणस्तीव्र इवाभिचारः Mv. 1.62.

Killing गतः क्रियां मन्त्र इवाभिचारिकीम् Ki 3.56.-Comp. -कल्पः N. of a work on incantations regarded as part of the Atharvaveda. -ज्वरः a fever caused by magical spells. -मन्त्रः a magical formula, an incantation or formula for working a charm; स्फुटमिद- मभिचारमन्य एक Śi.7.58. -यज्ञः, होमः a sacrifice made for magical purposes.

"https://sa.wiktionary.org/w/index.php?title=अभिचारः&oldid=204249" इत्यस्माद् प्रतिप्राप्तम्