अभिजनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिजनः, पुं, (अभिजायतेऽत्र, अभि + जन् + आधारे घञ्, वृद्ध्यभावः ।) ख्यातिः । जन्मभूमिः । कुलश्रेष्ठः । वंशः । इति मेदिनी ॥ (अन्वयः । “अभिजनतपोविद्यावीर्य्यक्रियातिशयैर्निजैः” । इति महावीरचरिते । “कथं दशरथाज्जातः शुद्धाभिजनकर्म्मणः” । इति रामायणे ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिजनः [abhijanḥ], 1 (a) A family, race, lineage; कलहंस- कादभिजनं ज्ञात्वा Māl.8; नाभिजनमीक्षते K.14; पतिं त्यक्त्वा देवं भुवनपतिमुच्चैरभिजनम् Mu.6.6; Ms.4.18; Dk.135,17; U.4. (b) Birth, extraction, descent; तुल्याभिजनेषु भूमिभरेषु (धरेषु ?) राज्ञां वृत्तिः M.1; Ms.1.1; Y.1.123.
High or noble descent, noble birth or family; तान्गुणान्संप्रधार्याहमग्ऱ्यं चाभिजनं तव Rām.4.17.2; स्तुतं तन्माहात्म्यं यदभिजनतो यच्च गुणतः Māl.2.13; शीलं शैलतटात्पत- त्वभिजनः संदह्यतां वह्निना Bh.2.39. M.5.
Forefathers, ancestors; अभिजनाः पूर्वे बान्धवाः Kāśi. on P.IV.3.9; also descendants.
Native country, motherland, ancestral abode (opp. निवास); cf. Sk. on P.IV.3.9 यत्र स्वयं वसति स निवासः (यत्र संप्रति उष्यते Mbh.); यत्र पूर्वैरुषितं सो$भिजनः इति विवेकः
Fame, celebrity.
The head or ornament of family; यद्विद्वानपि तादृशे$प्यभिजने धर्म्यात्पथो विच्युतः Mv.1.33.
Attendants, retinue (परिजन q. v.); वयसा शास्त्रतो धैर्यात् कुलेनाभिजनेन च Mb.5.12.15.
