अभिजातः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिजातः, त्रि, (अभिजन् + भावे क्तः, अभिमतं प्रशस्तं जातं जन्म यस्य सः ।) सुन्दरः । न्याय्यः । इति विश्वः ॥ कुलजः । कुलीनः । बुधः । पण्डितः । इत्यमरः ॥ (श्रेष्ठवंशोद्भवः । “जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः । अमन्यतैकमात्मानमनेकं वशिनां बशी” ॥ इति रघुवंशे । “न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नापकृतं वदेत् । मङ्खीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतं” ॥ इति मनुः । उचितः । उपयुक्तः । योग्यः । सुरूपः । मनोहरः । मान्यः । पूज्यः । धन्यः । श्लाघ्यः । भगवान् । समृद्धः ।)
