सामग्री पर जाएँ

अभिज्ञः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभिज्ञः, त्रि, (अभि साकल्येन जानाति, अभि + ज्ञा + कर्त्तरि कः ।) प्रवीणः । निपुणः । विज्ञः । इत्यमरः ॥ (बोद्धा । दक्षः । कुशलः । “अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः” । “अनभिज्ञास्तमिस्राणां दुर्द्दिनेष्वभिसारिकाः” । इति कुमारसम्भवे ।)

"https://sa.wiktionary.org/w/index.php?title=अभिज्ञः&oldid=112485" इत्यस्माद् प्रतिप्राप्तम्