सामग्री पर जाएँ

अभिनीतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभिनीतः, त्रि, (अभि + नी + क्तः ।) युक्तः । न्याय्यः । अतिसंस्कृतः । प्रशस्तो भूषितो वा । अमर्षी । क्रोधनः अक्षमावान् वा । इत्यमरः ॥ (“अस्मिन्नेव प्रकरणे धनञ्जयमुदारधीः । अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः” । इति महाभारते । विज्ञः । धीरः । “स भवान् वित्तसम्पन्नः स्थितः पथि निरत्यये । मित्रार्थमभिनीतत्वं यथावत् कर्त्तुमर्हसि” । इति रामायणे ।)

"https://sa.wiktionary.org/w/index.php?title=अभिनीतः&oldid=112515" इत्यस्माद् प्रतिप्राप्तम्