अभिभवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिभवः, पुं, (अभि + भू + भावे अप् ।) गर्व्व- नाशः । परिभवः । पराभवः । इति शब्दरत्ना- वली हेमचन्द्रश्च ॥ (पराजयः । तिरस्कारः । “रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः” । इति रघुवंशे । “बलवानपि निस्तेजाः कस्य नाभिभवास्पदं” । इति हितोपदेशे ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिभवः [abhibhavḥ], 1 Defeat, subjugation, subjection, overpowering; इतरेतरानभिभवेन मृगास्तमुपासते गुरुमिवान्तसदः Ki.6.34 (cf. K.45 and the Bible "The wolf shall also dwell with the lamb" &c.); 8.28; स्पर्शानुकूला इव सूर्यकान्तास्तद- न्यतेजोभिभवाद्वमन्ति Ś.2.7 when assailed, opposed, overpowered by another energy; अभिभवः कुत एव सपत्नजः R. 9.4.4.21.
Being overpowered जराभिभवविच्छायम् K. 346; being attacked or affected, stupefied (by fever &c.); न रोगशान्तिर्न चाभिभवः Suśr.
Contempt, disrespect; निरभिभवसाराः परकथाः Bh.2.64.
Humiliation, mortification (of pride); अलभ्यशोकाभिभवेयमाकृतिः Ku.5. 43; K.195.
Predominance, prevalence, rise, spread; अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः Bg.1.41; Ki.2.37.
