सामग्री पर जाएँ

अभिभूतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभिभूतः, त्रि, (अभि + भू + क्तः ।) ज्ञानरहितः । तत्पर्य्यायः । इतिकर्त्तव्यतामूढः २ विहस्तः ३ व्याकुलः ४ अभिमायः ५ विक्लवः ६ विह्वलः ७ । इति जटाधरः ॥ पराभूतः । भद्मदर्पः । तत्प- र्य्यायः । आत्तगर्व्वः २ । इति जटाधरः ॥ आत्त- गन्धः ३ । इत्यमरः ॥ अभिहतः ४ । इति तट्टीका ॥ (“दैत्याभिभूतस्य युवामवोढं मग्नस्य दोर्भिर्भुवनस्य भारम्” । इति भट्टिः ।)

"https://sa.wiktionary.org/w/index.php?title=अभिभूतः&oldid=112526" इत्यस्माद् प्रतिप्राप्तम्