अभिमतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिमतम्, त्रि, (अभि + मन् + कर्मणि क्तः ।) इष्टं । सम्मतं । यथा, -- “अभिमतफलशंसी चारु पुस्फोर बाहु- स्तरुषु चुकुवुरुच्चैः पक्षिणश्चानुकूलाः” । इति भट्टिः ॥ (हृद्यः । प्रियः । हृदयङ्गमः । “स माधवेनाभिमतेन सख्या रत्या च साशङ्क्षमनुप्रयातः” । इति कुमारसम्भवे । “अनिशमपि मकरकेतुर्मनसो- रुजमावहन्नभिमतो मे” ॥ इति शाकुन्तले ।)
