अभियुक्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभियुक्तः, त्रि, (अभि + युज् + क्तः ।) तत्परः । पर- कर्तृकरुद्धः । इति मेदिनी ॥ (“उद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः” । इति उत्तरचरिते । “अभियुक्तो यदा पश्येत् न किञ्चिद्धितमात्मनः । युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह” । इति हितोपदेशे ।) स्मृतिशास्त्रमते अभियोग- विषयीभूतः । आसामी इति ख्यातः । तत्पर्य्यायः । प्रत्यर्थी २ प्रतिवादी ३ । यथा, -- “अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवं । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः” ॥ इति व्यवहारतत्त्वे नारदः ॥
