अभियोक्ता
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभियोक्ता, [ऋ] त्रि, (अभि + युज् + कर्त्तरि तृच् ।) अभियोगकर्त्ता । विवादकर्त्ता । फरियादी इति ख्यातः । तत्पर्य्यायः । वादी २ अर्थी ३ । यथा, -- “अभियोक्ता प्रगल्भत्वात् वक्तुं नोत्सहते यदि । तदा कालः प्रदातव्यः कार्य्यशक्त्यनुरूपतः” ॥ इति व्यवहारतत्त्वे नारदः ॥