अभिलाषः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिलाषः, पुं, (अभि + लष + भावे घञ् ।) लोभः । तत्पर्य्यायः । इच्छा २ आकाङ्क्षा ३ स्पृहा ४ ईहा ५ तृट् ६ वाञ्छा ७ लिप्सा ८ कामः ९ तर्षः १० मनोरथः ११ । इत्यमरः ॥ काङ्क्षा १२ कान्तिः १३ रुक् १४ रुचिः १५ दोहदः १६ अभिलासः १७ । इति शब्दरत्नावली ॥ श्रद्धा १८ तृष्णा १९ मतिः २० छन्दः २१ । इति जटाधरः ॥ (“भव हृदय साभि- लाषं सम्प्रति सन्देहनिर्णयो जातः” । इति शाकु- न्तले । “अतोऽभिलाषे प्रथमं तथाविधे” । इति रघुवंशे ।) सङ्गमेच्छा २२ । इति रसमञ्जरी ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिलाषः [abhilāṣḥ], (˚सः sometimes) A desire, wish, longing for, craving after; affection, longing of a lover, love, (usually with loc. of the object of desire); अतो$भिलाषे प्रथमं तथाविधे मनो बबन्ध R.3.4; भव हृदय साभिलाषम् Śi.27; Me.112. साभिलाषं निर्वर्ण्य Ś.3 casting a coveting or wistful look; न खलु सत्यमेव शकुन्तलायां ममाभिलाषः Ś.2, Pt.5. 67; sometimes with प्रति and acc., or in comp. अभिलाषक, -लाषि (सि) न्, -लाषुक a. Wishing or desiring for (with acc., loc. or in comp.); desirous, covetous, greedy of; यदार्यमस्यामभिलाषि मे मनः Ś.1.22. जलाभिलाषी जलमाददानाम् R.2.6;3.36; Me.8; जयमत्र- भवान् नूनमरातिष्वभिलाषुकः Ki.11.18; Śi.15.59.
