अभिवादनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिवादनम्, क्ली, (अभिमुखीकरणाय वादनं नामो- च्चारणपूर्ब्बकनमस्कारः, अभि + वद् + णिच् भावे ल्युट् ।) नामोच्चारणपूर्ब्बकनमस्कारः । अभि- वादये भो अमुकशर्म्माहमित्येवंरूपः । तत्तु पाद- स्पर्शपूर्ब्बकनमस्कारः । तत्पर्य्यायः । पादग्रहणं २ । इत्यमरः ॥ (“अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि संप्रवर्द्धन्ते आयुर्विद्यायशोबलं” ॥ इति मनुः ।)
