अभिव्यक्ति

विकिशब्दकोशः तः
नेविगेशन पर जाएँ खोज पर जाएँ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिव्यक्ति¦ स्त्री अभि + वि--अन्ज--क्तिन्।

१ प्रकाशे सूक्ष्म-रूपेण स्थितस्य (
“कारणात्मना स्थितस्य) कारणस्य

२ कार्य्य-रूपेणाविर्भावे। साङ्ख्यपातञ्जलादिमते हि उत्पत्तेःप्राक् कार्य्यं सत् कारणाव्यापारेण व्यर्ज्यते यथोक्तम्। सांख्यसूत्रे।
“त्रिविधविरोधापत्तेश्च”।
“अथ सर्बंकार्य्यं त्रिविधं सर्ववादिसिद्धमतीतमनागतं वर्त्तमानमिति। तत्र यदि कार्य्यं सदा सन्नेष्यते तदा त्रिविधत्वानुपपत्तिः। अतीतादिकाले घटाद्यभावेन घटादेरतोतादिधर्म्मकत्वानु-पपत्तेः सदसतोः सम्बन्धानुपपत्तेः। किञ्च प्रतियोगित्वस्यप्रतियोगिरूपत्वे तद्दोषतादवस्थ्यात्। अभावमात्रस्वरूपत्वेपटाद्यभावो घटाद्यभावः स्यादभावत्वाविशेषात्। अभावे-ष्वपि स्वरूपतो विशेषाङ्गीकारे चाभावत्वस्य परिभाषा-मात्रत्वप्रसङ्गात्। अथ प्रतियोग्येवाभावविशेषक इतिचेन्न असतः प्रतियोगिनः प्रागभावादिषु विशेषकत्वासम्भवादिति। तस्मान्नित्यस्यैव कार्य्यस्यातीतानागतवर्त्त-मानावस्थाभेदा एव वक्तव्याः। घटोऽतीतो घटो वर्त्तमानोघटो भविष्यन्निति प्रत्ययानां तुल्यरूपतौचित्यात्। नत्वेकस्य भावविषयत्वमन्ययोश्चाभावविषयत्वमिति। ते एवा-तीतानागतत्वे अवस्थे ध्वंसप्रागभावव्यवहारं जनयत-स्तदतिरिक्ताभावद्वये प्रमाणाभावादिति एवमत्यन्ताभावा-न्योन्याभावापप्यधिकरणस्वरूपावेव। न चैवं प्रतियोगि-सत्ताकालेऽप्यधिकरणस्वरूपानपायादत्यन्ताभावप्रत्ययप्रसङ्गइति वाच्यम् परैरपि प्रतियोगिमति देशे तदत्यन्ताभावाङ्गीकारात्। प्रतियोगिसम्बन्धस्यातीतानागत्रावस्थयोरेव[Page0301-a+ 38] सामयिकात्यन्तामावत्वसम्भवाच्च। तस्मान्नास्मत्सिद्धान्तेऽभावो-ऽतिरिक्तः किञ्च घटो ध्वस्तो घटो भावी घटोऽत्र नास्तो-त्यादिप्रत्ययनियामकतया किञ्चिद्वस्त्वाकाङ्क्षायां तद्भावरूप-मेव कल्प्यते लाघवात्। अभावस्यादृष्टस्य कल्पने गौरवा-दिति” प्र॰ भा॰॥
“नासदुत्पादो नृशृङ्गवत्” सू॰॥ नरशृङ्ग-तुल्यस्यासत उत्पादोऽपि न सम्भवतीत्यर्थः॥
“उपादानमिय-मात्” सू॰॥ मृद्येव घट उत्पद्यते तन्तुष्वेव पट इत्येवंकार्य्याणामुपादानकारणं प्रति नियमोऽस्ति। स न सम्भवतिउत्पत्तेः प्राक् कार्य्यासत्तायां हि न कोऽपि कारणे विशेषो-ऽस्ति येन कञ्चिदेवासन्तं जनयेन्नेतरमिति। विशेषाङ्गी-कारे च भावत्वापत्तेर्गतमसत्तया। स एव च विशेषोऽ-स्माभिः कार्य्यस्यानागतावस्थेत्युच्यत इति। एतेन यद्वैशे-षिकाः प्रागभावमेव कार्योत्पत्तिनियामकं कल्पयन्ति तद-प्यपास्तम्। अभावकल्पनापेक्षया भावकल्प्यने लाघवात्। भावानां दृष्टचादन्यानपेक्षत्वाच्च। किञ्चाभावेषु स्वतोविशेषे भावत्वापत्तिः। प्रतियोगिविशेषश्च प्रतियोग्यसत्ता-काले नास्ति। अतोऽभावानामविशिष्टतया न कार्य्योत्पत्तौनियामकत्वं युक्तमिति॥
“शक्तस्य शक्यकरणात्” सू॰॥ कार्य्य-शक्तिमत्त्वमेवोपादानकारणत्वम् अन्यस्य दुर्वचत्वात् लाघ-वाच्च। सा शक्तिः कार्य्यस्यानागतावस्थैवेत्यतः शक्तस्य शक्य-कार्य्यकरणान्नासत उत्पाद इत्यर्थः॥
“कारणभावाच्च” सू॰उत्पत्तेः प्रागपि कार्यस्य कारणाभेदः श्रूयते तस्माच्चसत्कार्यसिद्ध्या नासदुत्पाद इत्यर्थः। कार्यस्यासत्त्वे हिसदसतोरभेदानुपपत्तिरिति। उत्पत्तेः प्राक् कार्य्याणांकारणाभेदे च श्रुतयः।
“तद्धेदं तर्ह्यव्याकृतमासीत्। सदेवसौम्येदमग्र आसीत्। आत्मैवेदंमग्र आसीत्। आप एवे-दमग्र आसुरित्याद्याः॥
“न भावे भावयोगश्चेत्” सू॰॥ मन्वेवं कार्यस्य नित्यत्वे सति भावरूपे कार्ये भावयोग उत्-पत्तिवोगो न सम्भवति असतः सत्त्व एवोत्पत्तिव्यवहारा-दिति चेदित्यर्थः॥
“नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यव-हारो” सू॰॥ कार्योत्पत्तेर्व्यवहाराव्यवहारौ कार्य्याभिव्यक्ति-निमित्तकौ। अभिव्यक्तित उत्पत्तिव्यवहारोऽभिव्यक्त्यमा-वाच्चोत्पत्तिव्यवहाराभावः न त्यसतः सत्तयेत्यर्थः। अभिव्यक्तिश्च न ज्ञानं किन्तु वर्त्तमानावस्था। कारणव्या-पारोऽपि कार्यस्य वर्त्तमानलक्षणपरिणाममेव जनयति। सतश्च कार्यस्य कारणव्यापारादभिव्यक्तिमात्रं लोकेऽपिदृश्यते। यथा शिलामध्यस्थप्रतिमाया लैङ्गिकव्यापारेणा-भिव्यक्तिमात्रं तिलस्थतैलस्य च निष्पीडनेन, धान्यस्थतण्डु-[Page0301-b+ 38] लस्य चावघातेनेति। तदुक्तं वाशिष्ठे।
“सुसूक्ष्मावस्थयाचक्रपद्मरेखाः शिलोदरे। यथा स्थिताश्चितेरन्तस्तथेयंजगदावली”॥ एतेषामिवास्माकमप्यनागतावस्थायाः प्रागभा-वाख्याया अभिव्यक्तिहेतुत्वाच्चेति। नन्वतीतमप्यस्तीत्यत्रकिंप्रमाणं? न ह्यनागतसत्तायामिव श्रुत्यादयोऽतीतसत्ता-यामपि स्फुटमुपलभ्यन्त इति। मैवम्। योगिप्रत्यक्षत्वा-न्यथानुपपत्त्यानागतातीतयोरुभयोरेव सत्त्वसिद्धेः प्रत्यक्ष-सामान्ये विषयस्य हेतुत्वात्। अन्यथा वर्त्तमान-स्यापि प्रत्यक्षेणासिद्ध्यापत्तेः तस्माद्धियामौत्सर्गिकप्रामा-ण्येनासति बाधके योगिप्रत्यक्षेणातीतमप्यस्तीति सिद्ध्यतियोगिनामतीतानागतप्रत्यक्षे च श्रुतिस्मृतीतिहासादिकंप्रमाणं योगवार्त्तिके प्रपञ्चितमिति। नन्वभिव्यक्तिरपि पूर्ब्बंसती वाऽसती वा। आद्ये कारणव्यापारात् प्रागपि कार्य-स्यामिव्यक्त्या स्वकार्यजनकत्वापत्तिः कारणव्यापारश्चविफलः। अन्त्ये चाभिव्यक्तावेव सत्कार्यसिद्धान्तक्षतिःअसत्या एवाभिव्यक्तेरभिव्यक्त्यङ्गीकारादिति अत्रोच्यते। कारणव्यपारात् प्राक् सर्वकार्य्याणां सदासत्त्वाभ्युपगमेनो-क्तविकल्पानवकाशाद्वटवत् तदभिव्यक्तेरपि वर्त्तमानावस्थयाप्रागसत्त्वेन तदसत्तानिवृत्त्यर्थं कारणव्यापारापेक्षणात्। अनागतावस्थया च सत्कार्यसिद्धान्तस्याक्षतेः। नन्वेकदासदसत्त्वयोर्विरोध इति चेत्। प्रकारभेदस्योक्तत्वात्। नन्वेवमपि प्रागभावामङ्गीकारेण प्रागसत्त्वमेब कार्य्याणांदुर्वचमिति। मैवम्। अवस्थानामेव परस्पराभावरूपत्वा-दिति॥ ननु सत्कार्यसिद्धान्तरक्षार्थमभिव्यक्तेरप्य{??}इव्यक्ति-रेष्टव्येत्यत आह।
“पारम्पर्यतोऽन्वेषणा वीजाङ्कुरवत्” सू॰॥ पारम्पर्यतः परम्परारूपेणेवाभिव्यक्तेरनुधावनं कर्त्तव्यम्वीजाङ्कुरवत् प्रामाणिकत्वेन चास्या अदोषत्वादित्यर्थः। वीजा-ङ्कुराभ्यां चात्रायमेव विशेषो यद्वीजाङ्कुरस्थले क्रमिकपरम्पर-यानवस्था, आभिव्यक्तौ चैककालीनपरम्परयेति। प्रामाणि-कृत्वन्तु तुल्यमेवेति। सर्वकार्य्याणां स्वरूपतो नित्यत्वमव-स्थाभिर्विनाशित्वं चेति पातञ्जलभाष्ये वदद्भिर्व्यासदेवैरपीय-मनवस्था प्रामाणिकत्वेन स्वीकृतेति।
“उत्पत्तिवद्वाहदोषः” सू॰॥ यथा घटोत्पत्तेरुत्पत्तिः स्वरूपमेव वैशेषिकादिभि-रसदुत्पादवादिभिरिष्यते लाघवात् तथैवास्माभिर्घटाभिव्यक्ते-रप्यभिव्यक्तिः स्वरूपमेवैष्टव्या लाघवात्। अत उत्पत्तावि-वाभिव्यक्तावपि नानवस्थादोष इत्यर्थः। अथैवमभिव्यक्तेर-भिव्यक्त्यनङ्गीकारे कारणव्यापारात् प्राक् तस्याः सत्त्वानु-पपत्त्या सत्कार्यवादक्षतिरिति चेन्न। अस्मिन् पक्षे सत[Page0302-a+ 38] एवाभिव्यक्तिरित्येव सत्कार्यसिद्धान्त इत्याशयात्। अभि-व्यक्तेश्चाभिव्यक्त्यभावेन तस्याः प्रागसत्त्वेऽपि नासत्कार्य-वादत्वापत्तिः। नन्वेवं महदादीनामेव प्रागसत्त्वमिष्यतांकिमभिव्यक्त्याख्यावस्थाकल्पनेनेति चेन्न। तद्धेदं तर्ह्यव्या-कृतमासीदित्यादि श्रुतिभिरव्यक्तावस्थायाः सतामेव का-र्य्याणां सिद्धेः तथाप्यभिव्यक्तेः प्रागभावादिस्वीकारा-पत्तिरिति चेन्न। तिसृणामनागताद्यवस्थानामन्योऽन्यस्या-भावरूपतयोक्तत्वात् तादृशाभावनिवृत्तय एव च कारण-व्यापारसाफल्यादिसम्भवात्। अयमेव हि सत्कार्यवादि-नामसत्कार्यवादिभ्यो विशेषो यत् तैरुच्यमानौ प्रागभाव-ध्वंसौ सत्कार्यवादिभिः कार्यस्यानागतातीतावस्थे भावरूपेप्रोच्येते। वर्त्तमानताख्या चाभिव्यक्त्यवस्था घटाद्व्यति-रिक्तेति धटादेरवस्थात्रयवत्त्वानुभवादिति। अन्यत् तु सर्वंसमानम्। अतो नास्त्यस्मास्वधिकशङ्कावकाश इति सां॰प्र॰ भा॰।
“अतः सिद्धं प्राक् कार्य्योत्पत्तेः कारणसद्भावः। कार्य्यस्य चाभिव्यक्तिलिङ्गत्वात् अभिव्यक्तेः कार्य्यस्य चसद्भावः प्रागुत्पत्तेः सिद्धः। कथम्? अभिव्यक्तिलिङ्ग-त्वात्। अभिव्यक्तिर्लिङ्गमस्येत्यभिव्यक्तिश्च साक्षाद्विज्ञाना-लम्बनत्वप्राप्तिः। यद्धि लोके प्रावृतं तमआदिनाघटादि वस्तु तदालोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत् प्राक् सद्भावं न व्यभिचरति। तथेद-मपि जगत् प्रागुत्पत्तेरित्यवगच्छामः न हि अविद्य-मानो घट उदितेऽप्यादित्य उपलभ्यते” वृ॰ भा॰।

३ अन्यथा स्थितस्य अन्यरूपेण प्रकाशे
“अभिर्व्यक्ते-रित्याश्मरथ्यः” शा॰ सू॰। अतिमात्रस्यापि परमे-श्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् अभिव्यज्यतेकिल प्रादेशपरिमाणः परमेश्वर उपासकानां कृते, प्रदेशेषुवा हृदयादिषु प्राणविढ्यास्थानेषु विशेषेणाभिव्यज्यते ततःपरमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्या-श्मरथ्य आचार्य्योमन्यते” इति भा॰।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिव्यक्तिः [abhivyaktiḥ], f.

Manifestation (of a cause as an effect); distinction, exposition, declaration, revelation, display, exhibition; सर्वाङ्गसौष्ठवाभिव्यक्तये M.1; दूतीसंप्रेषणै- र्नार्या भावाभिव्यक्तिरिष्यते S. D.6.

Association, concomitance; P.VIII.1.15 (Sk. = साहचर्यम्).

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिव्यक्ति/ अभि-व्यक्ति f. manifestation , distinction Pa1n2. 8-1 , 15 Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिव्यक्ति&oldid=487747" इत्यस्माद् प्रतिप्राप्तम्