अभिशस्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिशस्तः, त्रि, (अभि + शन्स + क्तः ।) परस्त्रियां परपुरुषे वा मैथुनं प्रति मिथ्यादूषितः । मैथुनं प्रति आहूतः । इति केचित् । उपपन्नपातकः । इति केचित् । मिथ्यादूषितमात्रं । इति केचित् । इति भरतः ॥ तत्पर्य्यायः । आक्षारितः २ क्षारितः ३ । इत्यमरः ॥ (प्राप्तापवादः । अभिपक्रुष्टः । “वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा । नाग्निर्ददाह रोमाणि सत्येन जगतः स्पृशः” ॥ इति मनुः । विनिन्दितः । विगर्हितः । पातक- कर्त्ता । “पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयीः” । इति मनुः ।)
