अभिषेकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिषेकः, पुं, (अभि + सिच् + भावे घञ् ।) स्नानं । इति त्रिकाण्डशेषः ॥ (“एकदा सोऽभिषेकार्थमाजगाम महानदों” । इति विष्णुपुराणे । “निर्वृत्तपर्य्यन्यजलाभिषेकां । वासोवसानामभिषेकयोग्यं” । इति कुमारसम्भवे ।) अथ ~दोलयात्राभिषेकद्रव्याणि लिख्यन्ते । शी- तलजलं १ गोमयं २ गोमूत्रं ३ दुग्धं ४ दधि ५ घृतं ६ कुशोदकं ७ शङ्खोदकं ८ चन्दनोदकं ९ कुङ्कुमोदकं १० फलोदकं ११ पुष्पोदकं १२ चन्दन- पिष्टामलक्युद्वर्त्तनं १३ सुगन्धिजलं १४ तेनाष्ट- वारस्नानं तत्र द्वितीयसप्तमाष्टमवारेषु दुग्धघृत- रणभूषिताष्टकन्याः २३ सर्व्ववादित्राणि २४ अ- लङ्कृतवन्दी २५ । इति वाल्मीकरामायणे अयो- ध्याकाण्डं ॥ * ॥ अथ राजाभिषेकविधिः । पुरो- हितो राज्ञः प्रजापालनाधिकारसिद्ध्यर्थं परदिने- ऽभिषेके कर्त्तव्ये पूर्ब्बदिने गणेशमातृकापूजन- पुण्याहवाचननान्दीप्रभृति पूर्ब्बाङ्गं कुर्य्यात् । राजा राज्ञी च नियमं कृत्वा उपवासं कुर्य्यात् । पर- दिने अमात्यसामन्तसहितः पुरोहितः कृतमङ्गल- स्नानौ राज्ञीराजानौ मणिकाञ्चनपृथिवीपुष्पाणि स्पर्शयित्वा नानारत्नचन्द्रातपोपशोभितमण्डप- मध्ये व्याघ्रचर्म्माच्छादितासने उपवेशयेत् । ततः पूर्ब्बोत्तरनीचां वेदीं कृत्वा तत्र स्वगृह्योक्तविधि- नाग्निं संस्थाप्य घृताक्ताः पलाशाश्वत्थशमीसमिधो वैदिकैर्म्मन्त्रैर्जुहुयात् । तत औडुम्बरस्रुवेण वैदि- कमन्त्रैर्घृताहुतीर्जुहुयात् । ततः सर्व्वतोभद्रम- ण्डपे स्थापितस्वर्णरजतताम्रमृण्मयकलसस्थसर्व्वौ- षधिपल्लवैलालवङ्गादि-सुगन्धिद्रव्यसंवासितपुण्य- नदीतोयं सुवर्णविभूषितशङ्खेन ऋत्विग्भिः सह गृहीत्वा तूर्य्यघोषैर्मङ्गलपाठैः राजसूयवाजपेय- महाभिषेकोक्तसूक्तमन्त्रैः सस्त्रीकं राजानं प्राङ्- मुखं मूर्द्ध्नि कन्याभिः सहाभिषिञ्चेत् । ततोऽमा- त्यादयः सर्व्वे अभिषिञ्चेयुः । ततः पुरोहित- मन्त्रिसामन्तप्रकृतिपुरुषा अलङ्कृताभिः कन्याभिः सह सुवासोगन्धमाल्याद्यलङ्कृतराज्ञीराज्ञोर्ललाटे कुङ्कुमागुरुकस्तूर्य्यादिद्रव्यैस्तिलकं दद्युः । ततो राज्ञो मूर्द्ध्नि किरीटं दत्त्वा छत्रचामरादिराज- चिह्नद्रव्याणि समुपकल्पेयुः । ततो दुन्दुभिस्वस्ति- पुण्याहचतुर्व्वेदधोषैः स्वकुलक्रमागतनाम्ना अमुक त्वं राजा भव इत्युक्त्वा राजोपरि श्वेतकुसुम- लाजाक्षतादि विकिरेयुः । ततो वन्दिनो माग- धाश्च स्तुतिं कुर्य्युः । ततो ब्राह्मणा आशिषं कुर्य्युः । ततः अमात्यादयः राज्ञे उपायनानि दत्त्वा नमस्कुर्य्युः । इति महाभारतादयः ॥ * ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिषेकः [abhiṣēkḥ], 1 Sprinkling, watering, wetting.
Anointing, inaugurating or consecrating by sprinkling water (a king, idol &c.). ततो हि नः प्रियतरं नान्यत्किंचिद्भविष्यति । यथाभिषेको रामस्य Rām.2.17.11; अग्निहोत्राभिषेकौ Kau. A. 1.3.
(Particularly) Coronation, inauguration, installation (of kings); royal unction; अथाभिषेकं रघुवंशकेतोः R.14.7.
The (holy) water required at inauguration, coronation water; अमात्यपरिषदं ब्रूहि संभ्रियतामायुषो राज्याभिषेक इति V.5; यौवराज्य ˚ ibid.; R.17.14.
Bathing; ablution, holy or religious bathing; अभिषेकोत्तीर्णाय काश्यपाय Ś.4; अत्राभिषेकाय तपोधनानाम् R.13.51, 1.85, 1.63,13.58,14.82; K.22,36,96; Ku.5.16;7.11; Ś.7.12; H.4.87.
Bathing or sprinkling with water (of a divinity to whom worship is offered).-Comp. -अहः day of coronation. -शाला coronationhall.
