सामग्री पर जाएँ

अभिष्यन्दः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभिष्यन्दः, पुं, (अभि + स्यन्द + घञ् । “अनुविप- र्य्यभिनिभ्यः स्यन्दतेरप्राणिषु” इति षत्वं ।) अति- वृद्धिः । आस्रावः । “अलकामतिवाह्यैव वसतिं वसुसम्पदाम् । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम्” ॥ इति कुमारसम्भवे ।) चक्षूरोगविशेषः । इति मेदिनी ॥ तस्य निदानं सम्प्राप्तिश्च । यथा, -- “उष्णाभितप्तस्य जलप्रवेशाद्- दूरेक्षणात् स्वप्नविपर्य्ययाच्च ॥ स्वेदाद्रजोधूमनिषेवणाच्च इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=अभिष्यन्दः&oldid=112611" इत्यस्माद् प्रतिप्राप्तम्