अभिसन्धिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिसन्धिः, पुं, (अभिसन्धानं अभि + सम + धा + भावे किः ।) अभिसन्धानं । उद्देशः । यथा, -- “पितॄन्नमस्ये दिवि ये च मूर्त्ताः, स्वधाभुजः काम्यफलाभिसन्धौ । प्रदानशक्ताः सकलेप्सितानां, विमुक्तिदा येऽनभिसंहितेषु” ॥ इति रुचिस्तवः ॥ (“अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरं । स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे” ॥ इति कुमारसम्भवे ।)
