अभीकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभीकः, पुं, (अभि + कन्, “अनुकाभिकाभीकाः कामयिता” इति पाणिनिसूत्रम् ।) कविः । इति मेदिनी ॥ स्वामी ॥ इति हलायुधः ॥ (पतिः । कामुकः । कामी । “ददृशे पर्णशालायां राक्षस्याभीकयाथ सः” । इति भट्टिकाव्ये । उत्सुकः । क्रूरः । निष्ठुरः । निर्भयः । निःशङ्कः । (“अभीकः कामुके क्रूरे निर्भये त्रिषुना कवौ” । इति मेदिनी ।)
अभीकः, त्रि, (अभि + कन् ।) कामुकः । क्रूरः । उत्सुकः । निर्भयः । इति शब्दरत्नावली ॥
