सामग्री पर जाएँ

अभीक्ष्णम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभीक्ष्णम्, क्ली, (क्षणमभिगतं, प्रादिसमासः पृषो- दरादित्वात् दीर्घः अलोपश्च ।) भृशं । नित्यं । तद्युक्तक्रिययोऽस्त्रि । इति मेदिनी ॥ (पुनः पुनः । शश्वत् । अविरतं । निरन्तरं । “उदीर्णरागप्रति- रोधंकं जनैरभीक्ष्णमक्षण्णतयातिदुर्गमः” । इति माघः ॥ “इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि न ज्ञातयस्तुल्यकुलस्य लक्ष्मीं” । इति भट्टिकाव्ये ।)

अभीक्ष्णम्, व्य, (अभि + क्ष्णु तेजने डमु, पृषोदरा- दित्वात् दीर्घः “स्वरादिनिपातमव्ययम्” इति अव्ययं ।) पुनः पुनः । अनारतं । इत्यमरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभीक्ष्णम् अव्य।

पौनःपुन्यः

समानार्थक:मुहुस्,पुनःपुनर्,शश्वत्,अभीक्ष्णम्,असकृत्

3।4।1।2।4

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥

पदार्थ-विभागः : , क्रिया

अभीक्ष्णम् अव्य।

निरन्तरम्

समानार्थक:घन,अभीक्ष्णम्,शश्वत्

3।4।11।1।3

युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते। अभावे नह्य नो नापि मास्म मालं च वारणे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अभीक्ष्णम्¦ अव्य॰ अभि + क्ष्णु--बा॰ डमु पृ॰ दोर्घः। पौनः-पुन्येस्वरादि।
“अभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम्” माघः।

"https://sa.wiktionary.org/w/index.php?title=अभीक्ष्णम्&oldid=205762" इत्यस्माद् प्रतिप्राप्तम्