अभीरुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभीरुः, पुं, (भी + कर्त्तरि शीलार्थे क्रुः ततो नञ्- समासः ।) भैरवः । यथा, -- “अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः” । इति वटुकभैरवस्तवः ॥ निर्भये त्रि ॥ (निर्भीकः । भयहीनः । निःशङ्कः । “स्थाने युद्धे च कुशलान- भीरूनविकारिणः” । इति मनुः ।)
अभीरुः, स्त्री, (भी + कर्त्तरि क्रु शीलार्थे, नञ्- समासः ।) शतमूली । इत्यमरः ॥
